Sunday, January 31, 2021

मनसा सततं स्मरणीयं




मनसा सततं स्मरणीयं
वचसा सततं वदनीयं 
लोकहितं मम करणीयम् ॥ लोकहितम् ॥ 

 न भोगभवने रमणीयं 
न च सुखशयने शयनीयम् । 
अहर्निशं जागरणीयं लोकहितं मम करणीयम् ॥ १॥ 

 न जातु दुःखं गणनीयं
 न च निजसौख्यं मननीयम् । 
कार्यक्षेत्रे त्वरणीयं लोकहितं मम करणीयम् ॥ २॥ 


 दुःखसागरे तरणीयं 
कष्टपर्वते चरणीयम् ।
 विपत्तिविपिने भ्रमणीयं 
लोकहितं मम करणीयम् ॥ ३॥ 

 गहनारण्ये घनान्धकारे बन्धुजना ये स्थिता गह्वरे । 
तत्र मया सञ्चरणीयं लोकहितं मम करणीयम् ॥ ४॥

No comments:

Post a Comment