Sunday, January 31, 2021

Shakthi sambhritam

 






शक्तिसम्भृतम् युक्तिसम्भृतम् । 
शक्तियुक्तिसम्भृतं भवतु भारतम् ॥ 
 शस्त्रधारकं शास्त्रधारकम् । 
शस्त्रशास्त्रधारकं भवतु भारतम् ॥ 
 रीतिसंस्कृतं नीतिसंस्कृतम् । 
रीतिनीतिसंस्कृतम् भवतु भारतम् ॥ 
 कर्मनैष्ठिकं धर्मनैष्ठिकम् । 
कर्मधर्मनैष्ठिकम् भवतु भारतम् ॥ 
 भक्तिसाधकं मुक्तिसाधकम् । 
भक्तिमुक्तिसाधकं भवतु भारतम् ॥


No comments:

Post a Comment